अपठित-गद्यांशाः
प्रश्न : १ अधोलिखितं गद्यांशं पठित्वा
यथानिर्दिष्टम् उत्तरत :
(Ms. Ved Kumari)
वर्तमानयुगे माध्यमिकशिक्षास्तरे संस्कृतभाषाया: अनिवार्यरूपेण
पाठनस्य आवश्यकता वर्तते। यदि अस्मिन् स्तरे भाषाया: अनिवार्यत्वं न भवेत्
तदा तु एषा भाषा विलुप्तप्राया भविष्यति । इयं वार्ता अस्माकं कृते लज्जाप्रदा एव
। अत: संस्कृतभाषाया:
रक्षायै अस्माभिः प्रयतनीयम् । वयं एतस्मै कार्याय
संकल्पबद्धाः भवेम ।
(क) एकपदेन उत्तरत -
(१) का
भाषा विलुप्तप्राया भविष्यति?
(२) कस्या: रक्षायै
अस्माभिः प्रयतनीयम्?
(ख) पूर्णवाक्येन उत्तरत -
(१) वर्तमानयुगे
का आवश्यकता?
(२) यदि
संस्कृतभाषाया:
अनिवार्यत्वं न भवेत् तदा किं भविष्यति?
(ग) निर्देशानुसारम् उत्तरत -
(१) ‘देवभाषायाः’ अस्य पदस्य पर्यायपदं गद्यांशात् चित्वा लिखत?
(२) गद्यांशे
‘वयं’ इति कर्तृपदस्य क्रियापदं किम्?
(३) ‘विलुप्तप्राया
भाषा’ अत्र विशेषणपदं किम् अस्ति?
(४) ‘एषा
भाषा विलुप्तप्राया भविष्यति।’ अत्र किं कर्तृपदम्?
प्रश्नः २ अधोलिखितं गद्यांशं पठित्वा यथानिर्दिष्टम्
उत्तरत । (Mr. M. L.
Shastri)
एकदा एकस्मिन्
ग्रामे एकः बालकः वसति स्म। तस्य नाम मोहनः आसीत्। सः परिश्रमी आसीत्। तस्य पितुः
नाम भूपालः आसीत्। तस्य पिता एकः कृषकः आसीत्। सः अपि कृषिकार्येषु परिश्रमेण
स्वपितुः सहायतां करोति स्म । तस्य गृहे एका धेनुः आसीत् । तस्याः नाम कपिला आसीत्
। सः मनसा तस्याः पालनं करोति स्म । अतः सर्वे तं गोपालकः इत्यपि कथयन्ति स्म ।
तस्य परिवारे चत्वारः सदस्याः आसन्।
(क) एकपदेन उत्तरत -
१/२*२=१
१. धेनोः
नाम किम् आसीत् ?
२. परिश्रमी
कः आसीत् ?
(ख) पूर्णवाक्येन उत्तरत -
१*२=२
१. मोहनः
कृषिकार्येषु कस्य सहायतां करोति स्म ?
२. बालकः
कुत्र वसति स्म ?
(ग) यथानिर्दिष्टम् उत्तरत-
१/२*४=२
१.“ तस्य
गृहे एका धेनुः आसीत् ।‘’
अस्मिन् वाक्ये क्रियापदं किम् अस्ति ?
२. “परिश्रमी
बालकः’’ अत्र विशेषणपदं किम् अस्ति?
३.“सः
परिश्रमी आसीत्। "
अत्र ‘सः’ इति
सर्वनामपदं कस्मै प्रयुक्तम् ?
४. गद्यांशे
‘गौ’ इति पदस्य पर्यायपदं किम् ?
प्रश्नः
३-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- 5 (Mr. Vishnu Datt Tiwari)
प्रतिदिनं पतनं प्रति
जायमानं जलवायोः परिवर्तनं सम्पूर्ण-विश्वस्य कृते चिन्तायाः
कारणं वर्तते । वाहनानां वातानुकूलकयन्त्राणाम् अधिकाधिकप्रयोगः एव
अस्याः समस्यायाः प्रमुखः आधारः वर्तते । कालान्तरे वायुमण्डले कार्बन-डाई-ऑक्साइड-इत्यादीनां वायूनां
प्राचुर्यात् वायुमण्डलस्य तापं प्रवर्धयिष्यति । हिमनदानां हिमः जलरूपं
धारयित्वा नदीषु जलस्य वृद्धिं करिष्यति ,
येन
भूमिः जलमग्ना भविष्यति । अत एव इदानीम् आरभ्य एव एतादृशं प्रयासं कुर्याम, येन समस्यायाः
परिष्कारः भवेत् । अतः वयं वृक्षारोपणं कुर्याम, वृक्षाणां कर्तनं
न कुर्याम, वैयक्तिकवाहनानाम् अपेक्षया सामूहिक-वाहनानां प्रयोगं कुर्याम, वातानुकूलकयन्त्राणां न्यूनातिन्यूनं
प्रयोगं कुर्याम इति ।
क) - एकपदेन
उत्तरत- ½ x 2=1
i) केषां हिमः
जलरूपं धारयति?
ii) केषां
कर्तनं न कुर्याम?
ख) – पूर्णवाक्येन
उत्तरत- 1x2=2
i) सम्पूर्ण-विश्वस्य कृते चिन्तायाः कारणं किम् वर्तते?
ii) केषां
वायूनां प्राचुर्यात् वायुमण्डलस्य तापं प्रवर्धयिष्यति?
ग) – निर्देशानुसारम्
उत्तरत- ½ x 4=2
i) 'येन
भूमिः जलमग्ना भविष्यति ।' इत्यस्मिन् वाक्ये किम्
सर्वनामपदं प्रयुक्तम्?
ii) गद्यांशे
'भविष्यति' इति क्रियापदस्य कर्तृपदं
किम्?
iii) 'एतादृशं
प्रयासं' अत्र विशेषणपदं किम्?
iv) 'पृथ्वी'
इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
प्रश्नः
४.-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – 5 (Mr. Pravesh Kaushik)
अखिले
विश्वे भारतीयसंस्कृतिः अन्यासु संस्कृतिषु सर्वोत्तमा श्रेष्ठा च। एषा संस्कृतिः
मानवहृदयेषु दया,
अहिंसा, धर्मः, परोपकारः
च इत्यादीनां गुणानां स्थापनं करोति । अस्यां संस्कृत्यां विश्वसाहित्यस्य
सर्वप्राचीनाः ग्रन्थाः ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः इति चत्वारः वेदाः सन्ति ।
महर्षिवाल्मीकिकृतरामायणं वेदव्यासकृतमहाभारतं अष्टादशपुराणानि च एताः रचनाः
अस्याः संस्कृत्याः महत्त्वं वर्धयन्ति । अत्रैव भगवता कृष्णेन गीतायां
निष्कामकर्मयोगः प्रतिपादितः वर्तते । “वसुधैव कुटुम्बकम्” एव अस्याः ध्येयवाक्यम् अस्ति। “सर्वे भवन्तु
सुखिनः” एतेन वाक्येन स्पष्टमस्ति यत् भारतीयसंस्कृत्याम् एव
सम्पूर्णविश्वं प्रति कल्याणभावना समाहिता अस्ति ।
क) - एकपदेन
उत्तरत- ½
x 2=1
i) कति वेदाः
सन्ति?
ii) भगवता
कृष्णेन गीतायां किं प्रतिपादितम्?
ख) – पूर्णवाक्येन
उत्तरत-
1 x 2=2
i) भारतीयसंस्कृतिः
मानवहृदयेषु केषां गुणानां स्थापनं करोति?
ii) काः
रचनाः भारतीयसंस्कृत्याः महत्वं वर्धते?
ग) – निर्देशानुसारम्
उत्तरत- ½
x 4=2
i) “वसुधैव
कुटुम्बकम् एव अस्याः ध्येयवाक्यम् अस्ति।” इत्यस्मिन्
वाक्ये अस्याः पदं कस्मै प्रयुक्तम् ?
ii) गद्यांशे ' करोति ' इति
क्रियापदस्य कर्तृपदं किम्?
iii) ‘सर्वप्राचीनाः’
इति
पदस्य विशेष्यपदं किम् अस्ति?
iv) 'हिंसा'
इति पदस्य किं विलोमपदं गद्यांशे
प्रयुक्तम्?
प्रश्नः५.- अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत –(Mr. Nagendra Jha)
भारतवर्षे आधुनिक युगे
अनेके धर्मप्रचारकाः समाज सुधारकाः च अभवन् । तेषु महर्षिः दयानन्दः प्रमुखः
अस्ति। अस्य जन्म गुजरातराज्यस्य काठियावाड़प्रदेशस्य टंकारा नामके ग्रामे अभवत् । अस्य
नाम पूर्वं मूलशंकरः आसीत्। अस्य पिता श्रीकर्षणमहोदयः आसीत्। एकदा
शिवरात्रौ शिवप्रतिमायाम् एकं मूषकं अपश्यत् । इत्थं
दृष्ट्वा तस्य हृदये वास्तविक शिवस्य विषये जिज्ञासा अभवत्। गृहम् त्यक्त्वा संन्यासी
च अभवत्। मथुरायां श्रीगुरुं विरजानन्दम् उपगम्य सः शिक्षाम् अगह्णात्।
1. एकपदेन उत्तरत -
१.
दयानन्दस्य
पितुः नाम किम् आसीत् ?
२.
दयानन्दस्य गुरोः नाम किम् आसीत् ?
2. पूर्णवाक्येन
१. दयानन्दस्य जन्म कुत्र
अभवत्?
२. क: शिवप्रतिमायाम् मूषकं
अपश्यत्?
3. निर्देशानुसार
उत्तरत
१.‘गुरुं
विरजानन्दम्’ अत्र विशेषणपदम् किम्?
२. गद्यांश ‘आसीत्’ इति
क्रियापदस्य कर्तृपदं किम्?
३. ‘मृत्यु’ अस्य पदस्य
किं विलोम पदं गद्यांशे प्रयुक्तम्?
४. ‘अस्य’ इति पदं कस्मै प्रयुक्तम् ?
प्रश्नः
६ अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत - (Ms. Geeta Joshi)
किं त्वम् जानासि
यत् अस्माकं गृहे पूर्वम् एका चटका दृश्यते स्म? सूर्योदयात् पूर्वमेव चीं
चीं चीं चीं स्वरमाध्यमेन मधुरस्वरेण सर्वान् आह्लादयति स्म । परं सा अधुना न
दृश्यते । अयम् अस्माकं कृते अति दुःखस्य विषयः अस्ति । जानासि, अस्य कारणं किम्? अस्माभिः चलदूरभाषयन्त्राणां वातानुकूलितयन्त्राणां
अन्यत् च आधुनिकयन्त्राणाम् बाहुल्येन प्रयोगः कृतः अतः अस्याः चटकायाः लोपः जातः
। वृक्षाणां कर्तनम् अपि अस्य एकं प्रमुखं कारणम् अस्ति । एतद् न शोभनम् ।
सर्वे
भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे
भद्राणि पश्यन्तु मा कश्चित् दुखभाग्भवेत् ॥
अस्माभिः
अस्याः भावनायाः पालनं कर्त्तव्यम् । एवं सर्वेषां प्राणिनां सम्मानं रक्षणञ्च
कर्त्तव्यम् ।
क. एकपदेन उत्तरत
- १/२*२=१
१. गृहे
का दृश्यते स्म ?
२. सा
कथं सर्वान् आह्लादयति स्म ?
ख. पूर्णवाक्येन
उत्तरत – १*२=२
१. कथं
चटकायाः लोपः जातः ?
२. केषां
सम्मानं रक्षणञ्च कर्त्तव्यम् ?
ग. निर्देशानुसारम्
उत्तरत – १/२*४=२
१. अनुच्छेदात्
’दुःखिनः’ इति पदस्य विलोमपदं चित्वा लिखत ।
२. जानासि
इति क्रियायाः कर्तृपदं किम् ?
३. ‘सर्वेषां प्राणिनां’ अत्र किं
विशेषणपदम्?
४. ‘सा’ इति पदं कस्यै प्रयुक्तम्?
प्रश्नः
७-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Mr. Vishwambhar P. Shastri)
अहं दीपकः अस्मि ।
मम मित्रस्य नाम विशालः अस्ति । सः मम गृहस्य समीपे वसति । आवाम् डी.ए.वी. विद्यालये पठावः । आवाम् प्रतिदिनं प्रातः
मिलित्वा भ्रमणाय गच्छावः । विद्यालयम् अपि मिलित्वा गच्छावः। आवाम् सायंकाले
मिलित्वा क्रीडाक्षेत्रे कन्दुकेन क्रीडावः । सः पठने अतीव कुशलः अस्ति । सः न
केवलं मम अपितु सर्वेषां सहायतां करोति । सः स्वभावेन अति सरलः अस्ति। कक्षायाः
सर्वे छात्राः तं स्नेहं कुर्वन्ति । अतः सः एकः आदर्शः बालकः अस्ति ।
क) - एकपदेन
उत्तरत- ½ x 2=1
i) दीपकस्य
मित्रं कः अस्ति?
ii) तौ
सायंकाले कुत्र क्रीडतः?
ख) – पूर्णवाक्येन
उत्तरत- 1 x 2=2
i) तौ
प्रतिदिनं प्रातः मिलित्वा किमर्थं गच्छतः?
ii) विशालः
कीदृशः बालकः अस्ति?
ग) – निर्देशानुसारम्
उत्तरत- ½ x 4=2
i) अस्मिन् वाक्ये ‘अहम्’ इति
सर्वनामपदं कस्मै प्रयुक्तम्?
ii) गद्यांशे 'अस्मि' इति
क्रियापदस्य कर्तृपदं किम्?
iii) ‘आदर्शः बालकः’ अत्र विशेषणपदं किम्?
iv) 'कठिनः' इति
पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
प्रश्नः
८-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Mr. Dattatreya)
इदानीं
संसारे प्रदूषणस्य अनेकानि रूपाणि सन्ति। तेषु एकम् अस्ति ध्वनिप्रदूषणम्।
ध्वनिप्रदूषणं सर्वेषां प्राणिनां कृते अत्यन्तं हानिकारकं भवति। उच्चध्वनिः
यन्त्रागारात् , वाद्ययन्त्रात् , विस्फोटकात् च उत्पन्ना भवति। ध्वनिप्रदूषणेन
प्राणिनः विचलितमनाः भवन्ति। केचन कर्णाभ्यां बधिराः अपि
भवन्ति। केचन मानसिकविकारेण युक्ताः भवन्ति। बालाः अशान्ताः, विचलिताः,
किङ्कर्तव्यविमूढाः भवन्ति। बालकाः मत्ताः उन्मत्ताः भवितुमपि शक्नुवन्ति। जङ्गमदूरवाण्याः
अत्यधिकप्रयोगेण अपि बालकानां व्यवहारे, विचारशक्तौ,
क्रियाशक्तौ, चिन्तनशक्तौ अपि दुष्प्रभावः भवितुम्
शक्नोति । अतः वयं सर्वे एतेषां प्रयोगं सावधानतया करवाम। वयम् अत्यधिकप्रयोगात् विरमाम च।
I एकपदेन उत्तरत–
1\2x2=1
१) संसारे कस्य
अनेकानि रुपाणि सन्ति
?
२) मनुष्यः
काभ्यां बधिरः भवितुं शक्नोति?
II पूर्णवाक्येन उत्तरत–
1x2=2
१) उच्चध्वनिः कुतः
उत्पन्ना भवति ?
२) वयं कस्याः अत्यधिकप्रयोगात् विरमेम ?
III निर्देशानुसारम् उत्तरत–
1x2=2
१) `बालाः
अशान्ताः भवन्ति’
अत्र विशेषणपदं किम् ?
२) `वयम्
अत्यधिकप्रयोगात् विरमाम’ अत्र क्रियापदं किम् ?
प्रश्नः
९-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Mr. Manoj Kumar)
भारतदेशे "हरिद्वारम्" नामकं
तीर्थस्थलम् अस्ति । इदं हिन्दूनां पवित्रं धार्मिकं च तीर्थस्थलम् अस्ति । गंगानदी
गंगोत्री-
स्थानात् निसृत्य अत्र वहति ।अत्र स्नानाय जना: प्रतिवर्षं
दूरदूरात् आगच्छन्ति । मन्यते यत् अत्र स्नानेन नरस्य सर्वाणि पापकर्माणि नष्टानि
भवन्ति । स: मोक्षं च प्राप्नोति "हर की पौडी"
इति नामकम् एकं पवित्रं स्थलम् अपि अत्र अस्ति । परित: अनेके
देवालया: सन्ति यत्र श्रद्धया जना: नमन्ति । रात्रौ नद्यां दीपकानां शोभा
रमणीया भवति । हरिद्वारस्य दर्शनं कृत्वा मन: पुलकितं भवति ।
I एकपदेन उत्तरत - १/२*२ =१
(क) गंगा
नदी कुत: निस्सरति?
(ख) ‘हर की
पौडी’ इति स्थानं कुत्र अस्ति?
II पूर्णवाक्येन उत्तरत – १*२= २
(क) के
किमर्थं च दूरात् आगच्छन्ति?
(ख) गंगायां
स्नानेन किं भवति?
III भाषिक कार्यम् - १/२*२=४
(क) ‘वहति’ अत्र क्रियाया: कर्तृपदं किम्?
(ख) ‘पवित्रम्
स्थलम्’ अत्र विशेष्यपदं किम्?
(ग) ‘प्रसन्नम्’ इति शब्दस्य कृते किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(घ) अनुच्छेदे
‘इदम्’ इति सर्वनामशब्दं कस्मै प्रयुक्तम्?
प्रश्नः
१०-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Mr.Manoj Kumar)
अस्माकं
देशस्य ध्वजः त्रिवर्णः अस्ति । एतेषां वर्णानां विशेषः
अभिप्रायः वर्तते। केशरवर्णः शौर्यस्य, श्वेतः शान्तेः, हरितश्च
समृध्देः सूचकाः सन्ति । स्वयं च अयं ध्वजः अनेकत्वे एकत्वस्य द्यौतकः अस्ति । ध्वजस्य
मध्ये स्थितम् अशोकचक्रं सत्यस्य,
धर्मस्य अहिंसायाश्च द्यौतकम् अस्ति।
अस्माकं
त्रिवर्णध्वजः स्वाभिमानस्य प्रतीकः
अस्ति। सर्वे अपि भारतीयैः अस्य सम्मानः करणीयः। अतः अस्माकं सङ्कल्पः
स्यात् यत् अस्य राष्ट्रध्वजस्य सम्मानरक्षार्थं वयं सर्वे स्व-स्वकर्त्तव्ये
तत्पराः भवेम। जयतु त्रिवर्णः ध्वजः।
जयतु भारतम् ।
I एकपदेनउत्तरत–
1\2x2=1
१)अस्माकं ध्वजे कति
वर्णाः सन्ति?
२) अशोक चक्रं कस्य द्यौतकम् अस्ति?
II पूर्णवाक्येनउत्तरत– 1x2=2
१) त्रिवर्ण ध्वजे शौर्यसूचकः
कः वर्णः अस्ति?
२) अस्माभिः कस्य मानं,
सम्मानं, रक्षां च करणीया?
III निर्देशानुसारं उत्तरत– 1\2x4=2
१) त्रिवर्णः
इति पदं कस्य विशेषणम् अस्ति?
२) ‘त्रिवर्णध्वजः
स्वाभिमानस्य प्रतीकः
अस्ति’ अत्र कर्ता कः?
३) सम्मानम्
इत्यस्य विलोम पदं लिखत|
४) शौर्यम्
इति पदस्य पर्यायवाची पदं लिखत ।
प्रश्नः
११-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Mr. Dinesh Arya)
संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा भाषा अस्ति
। इयम् अनेकासां भाषाणां जननी अस्ति । इयं भाषा अतीव वैज्ञानिकी । केचन कथयन्ति
यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा अस्ति । कालिदासादीनां विश्वकवीनां
काव्यसौन्दर्यम् अनुपमम् अस्ति । कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति।
आर्यभट्ट: गणित- शास्त्रे शून्यस्य प्रतिपादनम् अकरोत् । चिकित्सा-शास्त्रे
चरक-ऋषे: योगदानं विश्वप्रसिद्धम् अस्ति । अत: अस्माभि: संस्कृतम्
अवश्यम् एव पठनीयम् ।
१. एकपदेन उत्तरत – १/२* २ = १
(क) का
भाषा प्राचीनतमा?
(ख) शून्यस्य
प्रतिपादनं क:
अकरोत्?
२. पूर्णवाक्येन उत्तरत – १* २ = २
(क) चिकित्साशास्त्रे
कस्य योगदानम् अस्ति?
(ख) केषां
काव्यसौन्दर्यम् अनुपमम् अस्ति?
३. निर्देशानुसारम् उत्तरत - १/ २*४ = २
(क) ‘सर्वोत्तमा
भाषा’ अत्र विशेषणपदं किम्?
(ख) ‘अकरोत्’ इति क्रियापदस्य कर्तृपदं किम्?
(ग) अनुच्छेदात्
‘माता’ इति पदस्य पर्यायपदं लिखत।
(घ) अत्र ‘इयम्’ पदं कस्मै प्रयुक्तम्?
प्रश्नः
१२-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Ms. Sarita Kumari)
संस्कृतभाषा
अतीव प्राचीनभाषा अस्ति | एषा आर्याणां भाषा अस्ति |एषा सर्वासां भाषाणां जननी अस्ति
| संस्कृतभाषा अस्माकं संस्कृतेः भाषा अस्ति
| वेदाः रामायणं च संस्कृते एव सन्ति
| संस्कृतम् अतीव सरसा, सरला, मधुरा भाषा अस्ति
| श्रीमद्भगवद्गीता संस्कृतभाषायाम् एव विद्यते
| अस्माकं संस्कारेषु संस्कृतस्य उपयोगः भवति
| संस्कृतस्य पठनं सर्वेषां कृते अनिवार्यं स्यात्
| संस्कृतस्य उन्नत्या भारतराष्ट्रस्य उन्नतिः स्वयमेव भविष्यति
|अधुना अस्माकम् अपि कर्त्तव्यं वर्तते यत् वयं सर्वे मिलित्वा संस्कृत संरक्षणाय
प्रयत्नं कुर्मः |यतोहि वयं जानीमः यत् संस्कृतस्य उन्नतौ एव अस्माकम् उन्नतिः
इति मम विचारः |
एकपदेन उत्तरत
-
क)संस्कृतभाषा कीदृशी भाषा अस्ति
?
ख)का संस्कृतभाषायाम् एव विद्यते
?
पूर्णवाक्येन उत्तरत
–
क) कुत्र संस्कृतस्य उपयोगःभवति
?
ख) कस्य उन्नत्या भारतराष्ट्रस्य उन्नतिः स्वयमेव भविष्यति
निर्देशानुसारम् उत्तरत
–
क) ‘संस्कृतभाषा’ इति कर्तृपदस्य किं क्रियापदम् अत्र अस्ति
?
ख) ‘संस्कृतभाषा अतीव प्राचीनभाषा अस्ति
’ अस्मिन् वाक्ये विशेषणं पदं किम्?
ग) ‘कुर्मः’ इति
क्रियापदस्य कर्तृपदं किम् ?
घ) ‘एषा’ इति सर्वनामपदं कस्मै
प्रयुक्तम् ?
प्रश्नः
१३-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Mr. kuldeep)
अस्मान्
परित: यत् आवरणम् अस्ति तत् पर्यावरणम् इति कथ्यते। पर्यावरणस्य संरक्षणम् अस्माकं परमं कर्तव्यम् अस्ति ।
वर्तमानसमये बहुभूमिकभवनानां भूमिगतमार्गाणां
विशेषत्तः मेट्रो निर्माणाय वृक्षाः कर्त्यन्ते । तेषां कर्तनेन पर्यावरणस्य अतीव हानिः भवति । वयं स्वजीवने प्लास्टिकस्य (सुनम्यस्य)
स्यूतस्य सर्वदेव प्रयोगं कुर्मः।
शिक्षिताः अशिक्षिताः च सर्वे एव अस्य प्रयोगं
कुर्वन्ति । अनेन अपि पर्यावरणस्य तु हानिः भवति । सहैव अनेके
पशवः अपि प्लास्टिकस्य (सुनम्यस्य) स्यूतस्य कारणेन म्रियन्ते
। अतः अस्माभिः समाजस्य सहयोगेन पर्यावरणसंरक्षणस्य उपायाः
चिन्तनीयाः । अस्य कृते प्रधानमन्त्रिणा
अपि स्वच्छभारतयोजनायाः शुभारम्भः कृतः ।
(अ) एकपदेन उत्तरत -
(१) कस्य संरक्षणम् अस्माकं परमं कर्तव्यम् अस्ति?
(२) प्लास्टिकस्य (सुनम्यस्य) स्यूतस्य कारणेन के
म्रियन्ते?
(आ) पूर्णवाक्येन
उत्तरत -
(१) वर्तमानसमये केन कारणेन वृक्षाः कर्त्यन्ते?
(२) कस्य सहयोगेन पर्यावर्णसंरक्षणस्य उपायाः चिन्तनीयाः?
(इ) निर्देशानुसारम् उत्तरत -
(१) “शिक्षिताः" इति पदस्य विलोमपदं किम्?
(२) “अस्माकम् परमं कर्तव्यम् अस्ति।” अस्मिन्
वाक्ये विशेषणपदं किम्?
(३) ‘तेषाम्’ इति
सर्वनामपदं कस्मै प्रयुक्तम्?
(४) “कुर्वन्ति "
इति पदस्य कर्तृपदं किम्?
प्रश्नः
१४-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Ms. Suvarcha Trivedi)
जीवने धनस्य अत्यधिकं महत्त्वम्
अस्ति |धनेन जीवननिर्वाहः भवति | धनं विना वयं कथम् अपि
भोजनं प्राप्तुं शक्नुमः ? परन्तु यदि लोभेन वयम् अन्धाः
भूत्वा अधिकाधिकं धनं प्राप्तुं इच्छामः, अनुचितसाधनानां
प्रयोगं कुर्मः, तर्हि तेन धनेन दुःखमेव भविष्यति | तस्य रक्षणे एव समयः व्यतीतः भवति | कोऽपि तद्
हरिष्यति इति चिन्ता प्रतिक्षणं वर्धते | अभिमानः विवेकं
नाशयति | कृष्णधनस्य प्रच्छादनाय महान् क्लेशः भवति |
अतः वयम् उचितसाधनैः एव धनार्जनं कुर्याम, कस्मै
अपि ईर्ष्यां न कुर्याम अपितु यथाशक्ति ये असहायाः सन्ति तेषां साहाय्यं कुर्याम |
त्यागेन एव धनस्य संरक्षणं भवति । त्यागेन एव
उपभोगेन च वयम् आनन्दं प्राप्तुं शक्नुमः | अन्यस्य धनं प्रति कदापि अस्माभिः
लोभः न कर्तव्यः |
I एकपदेन उत्तरत -
(i) अभिमानः
कं नाशयति?
(ii) कस्य
प्रच्छादनाय महान् क्लेशः भवति?
II पूर्णवाक्येन उत्तरत -
(i) धनार्जनं
कथं करणीयम् ?
(ii) प्रतिक्षणं
का वर्धते ?
III निर्देशानुसारं उत्तरत -
(ii) “तस्य
रक्षणे एव समयः व्यतीतः भवति” इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्
(iii) “कुर्याम”
इति क्रियापदस्य कर्ता कः?
(iv) “अधिकाधिकं”
इति कस्य पदस्य विशेषणम्?
प्रश्नः
१५-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Ms. Suman Gola)
संस्कृत भाषा सर्वासु भाषासु प्राचीनतमा अस्ति । इयं भाषा
सर्वासां भाषाणां जननी अस्ति । प्राचीनकाले सर्वे जनाः संस्कृतभाषायाम् एव वदन्ति
स्म । अस्या: गीर्वाणवाणी,
देववाणी, सुरभारती आदीनि नामानि अपि सन्ति ।
कालिदासः, माघ:, हर्ष: आदय: संस्कृतभाषाया:
रत्नानि सन्ति । इयं भाषा सरला, सरसा
च अस्ति । इयं भाषा एव विश्वभाषा भवितुं शक्नोति ।
(क) एकपदेन उत्तरत -
(१) का
प्राचीनतमा भाषा अस्ति?
(२) संस्कृतभाषा
कीदृशी भाषा अस्ति ?
(ख) पूर्णवाक्येन उत्तरत -
(१) संस्कृतभाषायाः
कानि नामानि सन्ति ?
(२) संस्कृतभाषायाः
कानि रत्नानि सन्ति?
(ग) निर्देशानुसारम् उत्तरत -
(१) ‘माता’ अस्य पदस्य पर्यायपदं गद्यांशात् चित्वा लिखत?
(२) ‘इयं
भाषा सर्वासां भाषाणां जननी अस्ति ।’ अस्मिन्
वाक्ये क्रियापदम् किम् अस्ति ?
(३) ‘सरला भाषा’ अत्र विशेषणपदम् किम् अस्ति ?
(४) ‘इयम्
भाषा एव विश्वभाषा भवितुम् शक्नोति ।’ अस्मिन्
गद्यांशे ‘शक्नोति’ क्रियापदस्य किं
कर्तृपदम् ?
प्रश्नः
१६-
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-5 (Ms. Alka)
वर्तमानयुगे
राष्ट्रस्योन्नतये गुरूकुलीय-शिक्षाया: आवश्यकता वर्तते । अनया विधया
एव छात्राणां सर्वाङ्गीणः विकास: सम्भवति । छात्राणां शारीरिक-मानसिकाध्यात्मिक-उन्नति: चरमोत्कर्षरूपेण
प्राप्स्यति । यदि वर्तमानयुगीनशिक्षापद्धति: एवं विधरूपेण भवेत् तदा
भारतवर्ष: पुनश्च विश्वगुरू:
कथयिष्यते ।
(क) एकपदेन उत्तरत -
(१) भारतवर्ष: किम्
कथयिष्यते?
(२) छात्राणां
कीदृशः विकास:
सम्भवति?
(ख) पूर्णवाक्येन उत्तरत -
(१) वर्तमानयुगे
राष्ट्रस्योन्नतये कस्या:
आवश्यकता वर्तते?
(२) छात्राणां
कीदृशी उन्नति:
चरमोत्कर्षरूपेण प्राप्स्यति?
(ग) निर्देशानुसारम् उत्तरत -
(१) ‘शिक्षक:’ अस्य
पदस्य पर्यायपदं गद्यांशात् चित्वा लिखत?
(२) ‘राष्ट्रस्योन्नतये
गुरूकुलीयशिक्षाया:
आवश्यकता वर्तते ।’ अस्मिन्
वाक्ये क्रियापदम् किम् अस्ति?
(३) ‘सर्वाङ्गीणः
विकास:’ अत्र विशेषणपदम् किम् अस्ति?
(४) गद्यांशे
‘कथयिष्यते’ इति क्रियापदस्य किं कर्तृपदम्?
धन्वादः महोदय !
ReplyDeleteशोभनम्
ReplyDeleteसाधुवाद
ReplyDeleteDhanya wad mahodya
ReplyDeleteशोभनं
ReplyDeleteस्वागतम्
ReplyDeleteBhawan khand G madhey pathit padyansh avabodhane ankanam charcha n Kristen.
ReplyDeleteBhawan khand G madhey pathit padyansh avabodhane ankanam charcha n Kristen.
ReplyDeleteअत्युत्तमः
ReplyDelete