संस्कृतछात्रों और संस्कृतशिक्षकों के लिए उत्कृष्ट शिक्षणसामग्री हेतु इस ब्लॉग का निर्माण किया गया है।
Showing posts with label कक्षा अष्टमी Class VIII. Show all posts
Showing posts with label कक्षा अष्टमी Class VIII. Show all posts
Wednesday, September 8, 2021
Wednesday, September 9, 2020
Friday, August 7, 2020
Saturday, February 16, 2019
अपठित-गद्यांश (cluster-2)
अपठित गद्यांश:( मन्जु डी.ए.वी.रोहतक)
एकस्मिन् वने एक: सिंह: वसति स्म। मयूर: नृत्यति।कोकिला:मधुरम्
मधुरम् गायन्ति। मृगा: तीव्रम् धावन्ति। गजा: तत्र शनै:-शनै:चलन्ति। वृक्षे चटका: कूजन्ति। खगा: आकाशे उच्चै:उत्पतन्ति। शुक: अपि वृक्षे तिष्ठति। मृगा: मृगै: सह इतस्तत:धावन्ति।भ्रमरा:पुष्पेषु गुञ्जन्ति। पिका:मधुरम् कूजन्ति। उल्लूका: इतस्तत:पश्यन्ति। सर्वे पशव: वने मिलित्वा वसन्ति। तत्र एका नदी अपि वहति। नद्या: जलम् स्वच्छम् अस्ति।तत्र सर्वे पशव: मिलित्वा जलम् पिबन्ति।
उपरिलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु
१ एकपदेन उत्तरत् १.५*४=२
क. वने क: वसति स्म?
ख. के शनै: -शनै: चलन्ति?
ग. तत्र का वहति ?
घ. सर्वे पश्व: मिलित्वा किम् पिबन्ति?
२ पूर्ण वाक्येन उत्तरत् १*२=२
क. कस्या: जलम् स्वच्छम् अस्ति?
ख. खगा: कुत्र उत्पतन्ति?
३ निर्देशानुसार उत्तरत १*४=४
क. शुक: अपि वृक्षे तिष्ठति।अस्मिन् वाक्ये अव्यय पदं किम् अस्ति?
१. अपि २.शुक: ३.तिष्ठति
ख. "अस्वच्छम्" इति विलोम पदं चिनुत-
१. जलम् २.मधुरम् ३.स्वच्छम्
ग. ’तत्र सर्वे जलं पिबन्ति।’ अस्मिन् वाक्ये क्रिया पदं चिनुत-
१.सर्वे २.पिबन्ति ३. जलं
घ. ’उत्पतन्ति’ इति पदे किम् उपसर्ग अस्ति?
१.उत् २. उत ३. उप्
४.ग गद्यांशस्य उचित शीर्षकं लिख। २
मन्जु (रोहतक)
अपठित गद्यांश (आशा मलिक वी.वी.डी.ए.वी विकासपुरी)
गड़्गा भारतस्य प्रमुखा नदी अस्ति।गड़्गा हिमालयात् निस्सरति भारतीयजना: गड़गाम् माता इव
पूज्यन्ति।एतस्या: जलम् पवित्रम् भवति । किन्तु केचन् जना:गड़गा दूषितम् कुर्वन्ति। एतत् तु न
कर्तव्यम् । अस्माकम् कर्तव्यम् अस्ति यत् वयम् अपि गड़्गा स्वच्छं कर्तुम् प्रयत्नं कुर्याम्:। भारतीय
सर्वकार: अपि एताम् निर्मलीकर्तुम् अभियानम् चालयति ।
१- एकपदेन् उत्तरत- १/२*४=२
क- का प्रमुखा नदी अस्ति् ?
ख्- गड़्गा कस्मात् निस्सरति ?
ग- गड़्गाया: जलम् कीदृशम् भवति ?
घ- के गड़्गां दूषिताम् कुर्वन्ति ?
२- पूर्णवाक्येन् उत्तरत् १*२=२
क- के गड़्गां माता इव पूजयन्ति ?
ख्- अस्माकम् किम् कर्तव्यम् ?
३- अस्य गद्यांशस्य उचितं शीर्षक्ं लिखत-- २
४- निर्देशानुसार्ं उत्तरत् १*४=४
क्- ‘नदी‘ इति पदस्य विशेषण पदं किम् ?
( प्रमुखा, भारतस्य, अस्ति )
ख्- “ पूजयन्ति‘‘ पदे क्: लकार्: ?
( लट, लृट्,लोट् )
ग- भवति पदे किम् वचनम् ?
( एकवचनम् द्विवचनम्, बहुवचनम्
घ‘- एतत् तु न कर्तव्यम्‘ अत्र किम् अव्यय पद?
( एतत्, न , कर्तव्यम्)
|| अपठित गद्यांश: ||(रन्जु दुहन डी.ए.वी.)
विषय: – संस्कृतम्
अपठितं गद्यांशम् पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु---
एकस्मिन वने एक: काक: आसीत् |स:अतीव: बुभुक्षित: आसीत् |स: भोजनं अन्वेषणं अत्र तत्र भ्रमति स्म | अन्ते स: एकं रोटिकां पश्यति | बुभुक्षित: काक: तां रोटिकां खादितुं तत्पर: अभवत् |तदा एक: मार्जर: तत्र आगच्छति |: मार्जर: अतीव चतुर: आसीत् | स: काक: प्रशंसाम् अकरोत् |काकराज ! तव स्वर: अतीव मधुरं: अस्ति |एकं गीतं गाय |यदा स:गीतं गायति तदा रोटिका अध:पतति |मार्जार: रोटिकां खादति धावति च |
1 एकपदेन उत्तरत (½ x4 = 2)
क. बुभुक्षित: कः आसीत् ? ----------------------------------------------------|
ख. अन्ते रोटिकां क: खादति ? --------------------------------------|
ग. वने अत्र तत्र क: भ्रमति ? -----------------------------------------------------------|
घ कस्य स्वरं मधुरं आसीत् ? -----------------------------------------------------------|
2 पूर्णवाक्येन उत्तरत – (1x2= 2)
क. मार्जारः कीदृशःआसीत् ? ---------------------------------------------------|
ख. गीतं क: गायति ? -----------------------------------------------------|
3 अपठित गद्यांशं उचितं शीर्षकं लिखतु (2)
4. निर्देशानुसारं उत्तरत (4)
क. “मार्जर: अतीव चतुर: आसीत् |” वाक्ये अस्मिन् विशेषणपदं किं अस्ति ?
ख. “बुभुक्षित: इति पदस्य किं अर्थम् अस्ति ?
ग. “”आसीत् इति क्रियापदे कः धातुः ?
घ. “मार्जारः” शब्दस्य पर्यायवाची शब्दः लिखतु ?
प्रस्तुतकर्ता :रन्जु दुहन dav रोहतक
अपठित गद्यांश (प्रमोद कुमार)
एष: मम विद्यालय: अस्ति।मम विद्यालय: सुन्दर: विशाल: च अस्ति।
अस्माकं विद्यालये अनेकानि चित्राणि सन्ति। चित्राणि सुन्दराणि सन्ति। विद्यालये मम अनेकानि मित्राणि सन्ति। वयं मिलित्वा सुन्दराणि चित्राणि पश्याम:।वयं मिलित्वा गीतानि अपि गायाम:। वयं मिलित्वा क्रीडांगने क्रीडाम: धावाम: च।अस्माकम् अध्यापक: अध्यापिका: च स्नेहेन
पाठयन्ति। यदा अवकाश: भवति वयं मिलित्वा एव गृहम् गच्छाम:।
गृहम् गत्वा गृहकार्यं कुर्म: क्रीडाम: च। अनन्तरम् वयं मिलित्वा उद्याने
गच्छाम:।
प्रश्न-१ एकपदेन उत्तरत- ४×१/४=२
क वयं मिलित्वा कानि पश्याम:?
ख कुत्र अनेकानि चित्राणि सन्ति?
ग क: स्नेहेन पाठयति?
घ विद्यालय: कथम् अस्ति?
प्रश्न-२ पूर्णवाक्येन उत्तरत- २×१=२
क वयं कदा गृहम् आगच्छाम:?
ख वयं कदा मिलित्वा गायाम:?
प्रश्न-३ अस्य गद्यांशस्य शीर्षकं किम् अस्ति? २
प्रश्न-४ निर्देशानुसारम् उत्तरत्- ४×१=४
क क्रोधेन –इति पदस्य विलोम पदं किम्?
१.अनेकानि २.स्नेहेन ३.एव
ख "वयं गीतानि अपि गायाम:’ अत्र क्रिया पदं किम्?
१.वयम् २. अपि ३.गायाम:
ग वयं मिलित्वा सुन्दराणि चित्राणि पश्याम:।अस्मिन् वाक्ये विशेषण पदं चिनुत-
१.सुन्दराणि २.चित्राणि ३.अनेकानि
घ अधोलिखितेषु अव्यय पदं चिनुत-
१. १. मम २.अपि ३.वयं
अपठित गद्याश:(हरिदेव आर्य डी.ए.वी.विकासपुरी )
अपठित गद्याशं पठित्वा प्रश्नानां उत्तराणि लिखत |
स्वामी दयानन्द: एक: महापुरुष: आसीत् | तेषां महोदयानां जन्म गुजरात प्रदेशे टंकारा
नामके नगरे अभवत् | तेषां महोदयानां बाल्यकालस्य नाम मूलशङ्करः आसीत् | ते सर्वप्रथम:
आर्यसमाजस्य स्थापना मुम्बई नामके महानगरे अकुर्वन् | तेषां पितुर्नाम श्री कर्षणदास: आसीत् |
स्वामी दयानन्दस्य गुरोः नाम स्वामी विरजानन्द आसीत् | स्वामी दयानन्द उत्तर प्रदेशे मथुरा
नामके नगरे संस्कृत व्याकरणं अपठत् | स्वामी दयानन्द: संपुर्णजीवने वेदानां
प्रचार प्रसारं अकरोत् |कुरीतीनां निवारणाय च इतस्ततः अभ्रंमत् | ते स्त्री शिक्षाया: विधवा विवाहस्य सर्वदा
समर्थनं अकुर्वन्|
एकपदेन उत्तरत
१ महापुरुष: क: आसीत् ? [२ ]
२ स्वामी दयानन्दस्य जन्म कुत्र अभवत् ?
३ स्वामी दयानन्दस्य गुरोः किं नाम आसीत् ?
४ मूलशङ्कर कस्य नाम आसीत् ?
पूर्णंवाक्येन उत्तरत
१ क: वेदानां प्रचारं अकरोत् ? [ २ ]
२ स्वामी दयानन्द: कस्य स्थापना अकरोत् ?
अस्य गद्यांशस्य उचितं शीर्षकं लिखत [२ ]
निर्देशानुसारं उत्तरत [४ ]
१ एकं अव्ययशब्दं गद्यांशात् चित्वा लिखत |
क जन्म ख नाम ग इतस्ततः
२ स्वामी दयानन्द: अस्य विशेषणं लिखत |
क दया ख दयानन्द ग स्वामी
३ अभ्रमt इति क्रियापदस्य कर्तृपदं किम् ?
क स्वामी विरजानन्द: ख स्वामीदयानन्द ग मथुरा
४ स्वामी विरजानन्द: इति कर्तृपदस्य क्रियापदं किम् ?
क आसीत् ख अभवत् ग अपिबत्
हरिदेव आर्य डी ए वी विकासपुरी
अपठितगद्यांशः:(मायाराम शास्त्री एस.एल.एस.डी.ए.वी.जनकपुरी)
निम्नलिखितम् अपठितं गद्याशं पठित्वा निर्देशानुसारेण उत्तराणि लिखन्तु ।
महर्षि: वाल्मीकि: महाकवि: आसीत् । स: रामायणम् अरचयत् । वाल्मीकि: आदिकवि: मन्यते । रामायणम् आदिकाव्यम् अस्ति । रामायणे श्रीरामस्य कथा अस्ति।श्रीराम: स्वजनकस्य दशरथस्य आज्ञाम् अपालयत् । स: सीता लक्ष्मणाभ्याम् सह वने अवसत् ।स: रावणम् अमारयत् । रामराज्ये सर्वे धर्मस्य मार्गेण चलन्ति स्म।
१) एकपदेन उत्तरत । ( ½ x4 = 2)
अ) क: ऋषि: महाकवि: आसीत् ?
आ) किम् आदिकाव्यम् अस्ति ?
इ) रामायणे कस्य कथा अस्ति ?
ई) राम: सीतालक्ष्मणाभ्याम् सह कुत्र अवसत् ?
२) पूर्णवाक्येन उत्तरत । (1x2= 2)
अ) रामराज्ये सर्वे कथं चलन्ति स्म।
आ) श्रीराम: काम् अपालयत् ?
३) गद्यांशस्य उचितम् शीर्षकं लिखन्तु । (2)
४) यथानिर्देशम् उत्तरत । (4)
क) ‘अस्ति’ इति पदे क: धातु: ?
ख)''अमारयत्'' क्रियाया: कर्ता किम् ?
ग) गद्यांशात् अव्ययपदम् चित्वा लिखन्तु ।
घ) महर्षि: वाल्मीकि: अत्र किम् विशेषणम्?
अपठित-गद्यांश(प्रतिभा डी.ए.वी वेदव्यास )
स्वच्छं भारतं प्रायः अधिकांश भारतीयानां स्वप्नः अस्ति | परन्तु, केवलं स्वप्न
मात्रेण स्वच्छता न भवति | वयं सर्वे मिलित्वा एव स्वच्छतायाः विषये प्रयासं
कुर्याम | वयं पश्यामः यत् जनाः मार्गेषु सार्वजनिक स्थानेषु इतस्ततः अवकरं
क्षिपन्ति | एतत् न उचितम् अतः एवं न करणीयम् | भारतीयसर्वकारः अपि
एतत् कार्यं कर्तुं प्रयत्नशीला अस्ति परन्तु यदि वयं सर्वे एव जागरुकाः भविष्यामः
तदा अयं स्वप्नः अवश्यमेव पूर्णः भविष्यति | एवं प्रदूषणस्य समस्यायाः अपि
समाधानं भविष्यति |
अ. एकपदेन उत्तरत - ½ x 4 = 2
क. स्वच्छं भारतं केषां स्वप्नः अस्ति ?
ख. केवलं स्वप्नमात्रेण का न भवति ?
ग. वयं सर्वे एव कीदृशाः भविष्यामः ?
घ. जनाः मार्गेषु किं क्षिपन्ति ?
आ. पूर्णवाक्येन उत्तरत – 2
क. अयं स्वप्नः कदा पूर्णः भविष्यति ?
ख. कस्य समस्यायाः अपि समाधानं भविष्यति ?
इ. अस्य गद्यांशस्य उचितं शीर्षकं लिखत - 2
ई. निर्देशानुसारम् उत्तरत – 4
क. सर्वकारः इति पदस्य किं विशेषणपदम् ?
i. प्रायः ii. भारतीयः iii. स्वप्नः
ख. ‘एतत् न उचितम्’ अत्र किम् अव्ययपदम् ?
i. एतत् ii. उचितम् iii. न
ग. ‘क्षिपन्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
i. अवकरम् ii. जनाः iii. इतस्ततः
घ. ‘अपूर्णः’ इति पदस्य विलोमपदं किं प्रयुक्तम् ?
i. अवश्यम् ii. पूर्णः iii. स्वप्नः
अपठित गद्यांश(रेणु यादव डी.ए.वी द्वारका )
एष: मम विद्यालय: अस्ति।मम विद्यालय: सुन्दर: विशाल: च अस्ति।
अस्माकं विद्यालये अनेकानि चित्राणि सन्ति। चित्राणि सुन्दराणि सन्ति।
विद्यालये मम अनेकानि मित्राणि सन्ति। वयं मिलित्वा सुन्दराणि चित्राणि पश्याम:।वयं मिलित्वा गीतानि अपि गायाम:। वयं मिलित्वा क्रीडांगने क्रीडाम: धावाम: च।अस्माकम् अध्यापक: अध्यापिका: च स्नेहेन
पाठयन्ति। यदा अवकाश: भवति वयं मिलित्वा एव गृहम् गच्छाम:।
गृहम् गत्वा गृहकार्यं कुर्म: क्रीडाम: च। अनन्तरम् वयं मिलित्वा उद्याने
गच्छाम:।
प्रश्न-१ एकपदेन उत्तरत- ४×१/४=२
क वयं मिलित्वा कानि पश्याम:?
ख कुत्र अनेकानि चित्राणि सन्ति?
ग क: स्नेहेन पाठयति?
घ विद्यालय: कथम् अस्ति?
प्रश्न-२ पूर्णवाक्येन उत्तरत- २×१=२
क वयं कदा गृहम् आगच्छाम:?
ख वयं कदा मिलित्वा गायाम:?
प्रश्न- अस्य गद्यांशस्य शीर्षकं किम् अस्ति? २
प्रश्न-३ निर्देशानुसारम् उत्तरत्- ४×१=४
क क्रोधेन –इति पदस्य विलोम पदं किम्?
१.अनेकानि २.स्नेहेन ३.एव
ख ’वयं गीतानि अपि गायाम:’ अत्र क्रिया पदं किम्?
१.वयम् २. अपि ३.गायाम:
ग वयं मिलित्वा सुन्दराणि चित्राणि पश्याम:।अस्मिन् वाक्ये विशेषण पदं चिनुत-
१.सुन्दराणि २.चित्राणि ३.अनेकानि
घ अधोलिखितेषु अव्यय पदं चिनुत-
- मम २.अपि ३.वयं
अपठित-गद्यांशः(पूनम मित्तल)
अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं उत्तराणि लिखन्तु- 10
भारते अनेकाः नद्यः सन्ति। तासु गङ्गा पवित्रतमा अस्ति।गङ्गा हिमालयात् निस्सरति। विभिन्नप्रान्तेषु भूत्वा गङ्गा बङ्गालप्रदेशे सागरं प्रविशति। जनाः गङ्गां माता इव पूजयन्ति। किन्तु वर्तमान-समये जनाः गङ्गां प्रदूषितां कुर्वन्ति। ते गङ्गायां पुष्पदीपकान् प्रवाह्य जलं दूषितं कुर्वन्ति। ते गङ्गायां अवकरं अपि क्षिपन्ति। एवं न करणीयम्। अद्यत्वे प्रधानमन्त्री महोदयेन गङ्गायाः स्वच्छतायै एका योजना परिचालिता येन वयं गङ्गायाः संरक्षणं कर्तुं समर्थाः भविष्यामः।
I एकपदेन उत्तरत- 1\2x4=2
1. भारते अनेकाः काः सन्ति?
2. गङ्गा कुतः निस्सरति?
3. के गङ्गां प्रदूषितां कुर्वन्ति?
4. जनाः गङ्गायां किं क्षिपन्ति?
II पूर्णवाक्येन उत्तरत- 1x2=2
1. गङ्गा कुत्र प्रविशति?
2. केन गङ्गायाः स्वच्छतायै एका योजना परिचालिता?
III गद्यांशस्य उचितं शीर्षकं लिखत- 2
IV निर्देशानुसारम् उत्तरत- 1x4=4
1.’योजना’ इति पदस्य विशेषणपदं किम्?
i.गङ्गा ii.एका iii.कर्तुम्
2.’प्रविशति’ इति क्रियापदस्य कर्तृपदं किम्?
i.गङगा ii.बङ्गालप्रदेशे iii.सागरम्
3.’दूषितम्’ इति पदस्य विपरीतपदं किम्?
i.जलम् ii.स्वच्छम् iii.गङ्गा
4.’जनाः गङगां माता इव पूजयन्ति’ अस्मिन् वाक्ये अव्ययपदं किम्?
i.जनाः ii.माता iii.इव
|| अपठित गद्यांश: ||(प्रमोद कुमार डी.ए.वी द्वारका)
विषय: – संस्कृतं | कक्षा–षष्ठी
अपठितं गद्यांशम् पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु –
श्रवणः पितृभक्तः बालकः आसीत् | तस्य जननी जनकः च अन्धौ आस्ताम् | एकदा श्रवणः जलं आनेतुम् तडागं अगच्छत् | सः घटे जलं अभरत् | तथा घटात् गड-गड इति शब्द: नि:सरति | तदा राजा दशरथः आखेटाय वने अगच्छत् | सः अबोधत् कश्चित् गजः जलं पिबति | राजा दशरथः बाणं अक्षिपत् | बाण: श्रवणं अलगत् |श्रवणस्य मृत्युः अभवत् | श्रवणस्य माता-पितरौ अशपताम् |
1 एकपदेन उत्तरत ( ½ x4 = 2)
- पितृभक्तः कः आसीत् ? ----------------------------------------------------|
- श्रवणः जलं आनेतुम् कुत्र अगच्छत्? --------------------------------------|
- कः बाणं अक्षिपत् ? -----------------------------------------------------------|
घ बाण: कं अलगत्? -----------------------------------------------------------|
2 पूर्णवाक्येन उत्तरत – (1x2= 2)
- दशरथः किं अबोधत् ? ---------------------------------------------------|
- कः वने अगच्छत् ? -----------------------------------------------------|
3 अपठित गद्यान्शस्य उचितं शीर्षकं लिखतु (2)
4. निर्देशानुसारं उत्तरत – (4)
- “श्रवणः पितृभक्तः बालकः आसीत् |” वाक्ये अस्मिन् विशेषणपदं किं अस्ति ?
- “अक्षिपत् ” इति क्रियापदस्य कर्तृपदं किं अस्ति ?
- “ अभवत्” इति क्रियापदे कः धातुः ?
- “जल ” शब्दस्य पर्यायवाची शब्दः लिखतु ?
प्रस्तुतकर्ता : प्रमोद कुमार dav द्वारका नई दिल्ली
अपठितं गद्याशं(धर्मप्रकाशशास्त्री डी.ए.वी.पश्चिम विहार )
निम्नलिखितम् अपठितं गद्याशं पठित्वा निर्देशानुसारेण उत्तराणि लिखन्तु ।
पितामही शयन-कक्षे गच्छति ।सा ईश्वरं नमति ।तत्पश्चात् सा शयनं करोति । प्रात: सा पञ्चवादने उत्तिष्ठति । सा स्नानं करोति । स्नानस्य पश्चात् सा देवस्य पूजनं करोति ।सा भक्तिगानं गायति ।सा सूर्यं नमति। सा वदति ‘सूर्याय नम:’ । सूर्य: संसाराय जीवनं ददाति । अत: सूर्य: पूज्य: अस्ति ।
१) एकपदेन उत्तरत ।
अ) पितामही कुत्र गच्छति ?
आ) सा कदा उत्तिष्ठति ?
इ) सा कम् नमति ?
ई) क: संसाराय जीवनं ददाति ?
२) पूर्णवाक्येन उत्तरत ।
अ) पितामही कदा पूजनम् करोति ?
आ) सूर्य: किमर्थं पूज्य: अस्ति ?
३) गद्यांशस्य उचितम् शीर्षकं लिखन्तु ।
४) यथानिर्देशम् उत्तरत ।
क) गच्छति क्रियाया: कर्ता का ?
ख) देवस्य पदे का विभक्ति ?
ग) अत: सूर्य: पूज्य: अस्ति । अस्मिन् वाक्ये अव्ययपदं किम् ?
घ) ‘सूर्य:’ इति पदस्य पर्यायपदं लिखन्तु ?
(अपठित- गद्यांश:)(सुरेश धीङ्गरा)
अपठित- गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु- (10)
संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा भाषा अस्ति । इयं भाषा देववाणी अपि कथ्यते । संस्कृतभाषा संसारस्य सर्वासां भाषाणां जननी अस्ति । सम्पूर्ण- संस्कृतसाहित्यम् अति प्राचीनम् अस्ति । इयं भाषा सर्वासु भाषासु सर्वश्रेष्ठा भाषा अस्ति । संस्कृतभाषाया: हिन्दीभाषाया: च माता पुत्री सम्बन्ध: विद्यते । संसारस्य सर्वासु भाषासु अनेके शब्दा: संस्कृतभाषाया: गृहीता: । अस्माकं सर्वे धार्मिक-ग्रन्था:, वेदा:, उपनिषदा:, पुराणानि च संस्कृतमेव सन्ति । चत्वार: वेदा: यथा- ऋग्वेद: ,यजुर्वेद: ,सामवेद: , अथर्ववेद: च । वेदव्यास - रचितं महाभारतम् , वाल्मीकि - रचितं रामायणम् अपि संस्कृतमेव स्त: । संस्कृतं पठित्वा वयं सुसंस्कृता: भवाम: । अद्यत्वे जना: विदेशेषु अपि संस्कृतभाषां वक्तुम् प्रयत्नशीला: सन्ति । ते संस्कृत- श्लोकानाम् उच्चारणं अति प्रसन्नतया एवम् मनोयोगेन कुर्वन्ति । यत: संस्कृतभाषाया: उच्चारणेन शरीरस्य सर्वेषु अङ्गेषु ऊर्जाया: प्रसार: भवति। अत: सर्वे जना: संस्कृतभाषां अवश्यम् एव पठन्तु ।
1.एकपदेन उत्तरत – 1/2x4=2
(I) का भाषा देववाणी अपि कथ्यते ?
(II) संस्कृतसाहित्यम् कीदृशम् अस्ति ?
(III) महाभारतम् क: अरचयत् ?
(IV) अद्यत्वे जना: कुत्र संस्कृतभाषां वक्तुम् प्रयत्नशीला: सन्ति ?
2.पूर्णवाक्येन उत्तरत – 1x2=2
(I) संस्कृतभाषाया: हिन्दीभाषाया: च कीदृश:सम्बन्ध: विद्यते ?
(II) वेदा: के के सन्ति ?
3.गद्यांशस्य उचितं शीर्षकं लिखत । 2x1=2
4.भाषिककार्यम् – 1/2x4=2
(I) “सर्वासु ” अस्य पदस्य विशेष्य-पदंकिम् ?
(क) विदेशेषु (ख) सर्वेषु (ग) भाषासु
(II) “विश्वस्य” अत्र अस्य पदस्य किंपर्यायपदं प्रयुक्तम् ?
(क) शरीरस्य (ख) संसारस्य (ग) भाषाया:
(III) “नवीनम्” अत्र अस्य पदस्य किंपर्यायपदं प्रयुक्तम् ?
गद्यांशात्
अव्ययपदं चित्वा
अपठितगद्याश:(मायाराम शास्त्री
निम्नलिखितम् अपठितं गद्याशं पठित्वा निर्देशानुसारेण उत्तराणि लिखन्तु ।
महर्षि: वाल्मीकि: महाकवि: आसीत् । स: रामायणम् अरचयत् । वाल्मीकि: आदिकवि: मन्यते । रामायणम् आदिकाव्यम् अस्ति । रामायणे श्रीरामस्य कथा अस्ति।श्रीराम: स्वजनकस्य दशरथस्य आज्ञाम् अपालयत् । स: सीता लक्ष्मणाभ्याम् सह वने अवसत् ।स: रावणम् अमारयत् । रामराज्ये सर्वे धर्मस्य मार्गेण चलन्ति
१) एकपदेन उत्तरत ।
अ) क: ऋषि: महाकवि: आसीत् ?
आ) किम् आदिकाव्यम् अस्ति ?
इ) रामायणे कस्य कथा अस्ति ?
ई) राम: सीतालक्ष्मणाभ्याम् सह कुत्र अवसत् ?
२) पूर्णवाक्येन उत्तरत ।
अ) रामराज्ये सर्वे कथं चलन्ति स्म।
आ) श्रीराम: काम् अपालयत् ?
३) गद्यांशस्य उचितम् शीर्षकं लिखन्तु ।
४) यथानिर्देशम् उत्तरत ।
क) ‘अस्ति’ इति पदे क: धातु: ?
ख)अमारयत् क्रियाया: कर्ता किम् ?
ग) गद्यांशात् अव्ययपदम् चित्वा लिखन्तु ।
घ) महर्षि: वाल्मीकि: अत्र किम् विशेषणम्?
Subscribe to:
Posts (Atom)